Rudram in Devanagari
This page contains Laghunyasam, Rudram and Chamakam in Devanagari Lipi with vedic svara.
॥ श्री रुद्रप्रश्नः॥
॥ लघुन्यासः॥
ओं अथात्मान शिवात्मानग् श्री रुद्ररूपं ध्यायेत्॥
शुद्धस्फटिक संकाशं त्रिनेत्रं पञ्च वक्त्रकम्।
गङ्गाधरं दशभुजं सर्वाभरण भूषितम्॥
नीलग्रीवम् शशाङ्काङ्कं नाग यज्ञोप वीतिनम्।
व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम्॥
कमन्डल्वक्ष सूत्राणां धारिणं शूलपाणिनम्।
ज्वलन्तं पिङ्गलजटा शिखा मुद्द्योत धारिणम्॥
वृष स्कन्ध समारूढं उमा देहार्थ धारिणम्।
अमृतेनाप्लुतं शान्तं दिव्यभोग समन्वितम्॥
दिग्देवता समायुक्तं सुरासुर नमस्कृतम्।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम्।
सर्व व्यापिन मीशानं रुद्रं वै विश्वरूपिणम्।
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत्॥
अथातो रुद्र स्नानार्चनाभिषेक विधिं व्याख्यास्यामः।
आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो ब्रह्मचारी
शुक्लवासा देवाभिमुखः स्थित्वा आत्मनि देवताः स्थापयेत्॥
प्रजनने ब्रह्मा तिष्ठतु। पादयोर् विष्णुस्तिष्ठतु।
हस्तयोर् हरस्तिष्ठतु। बाह्वोरिन्द्रस्तिष्ठतु। जठरेऽग्निस्तिष्ठतु।
हृदये शिवस्तिष्ठतु। कण्ठे वसवस्तिष्ठन्तु। वक्त्रे सरस्वती तिष्ठतु।
नासिकयोर् वायुस्तिष्ठतु। नयनयोश्चन्द्रादित्यौ तिष्ठेताम्।
कर्णयोरश्विनौ तिष्टेताम्। ललाटे रुद्रास्तिष्ठन्तु।
मूर्ध्न्यादित्यास्तिष्ठन्तु। शिरसि महादेवस्तिष्ठतु।
शिखायां वामदेवस्तिष्ठतु। पृष्ठे पिनाकी तिष्ठतु।
पुरतः शूली तिष्ठतु। पार्श्वयोः शिवाशन्करौ तिष्ठेताम्।
सर्वतो वायुस्तिष्ठतु। ततो बहिः सर्वतोऽग्निर् ज्वालामाला परिवृतस्तिष्ठतु।
सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु। मा रक्षन्तु।
अ॒ग्निर्मे॑ वा॒चि श्रि॒तः। वाग्धृद॑ये। हृद॑यं॒ मयि॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
वा॒युर्मे प्रा॒णे श्रि॒तः। प्रा॒णो हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
सूर्यो॑ मे॒ चक्षुषि श्रि॒तः। चक्षु॒र् हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः। मनो॒ हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
दिशो॑ मे॒ श्रोत्रे श्रि॒ताः। श्रोत्र॒ हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
आपो॑ मे॒ रेत॑सि श्रि॒ताः। रेतो॒ हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ताः। शरी॑र॒ हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
ओ॒ष॒धि॒ व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः। लोमा॑नि॒ हृद॑ये।
हृद॑यं॒ मयि॑॑। अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
इन्द्रो॑ मे॒ बले श्रि॒तः। बल॒ हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
प॒र्जन्यो॑ मे॒ मू॒र्द्नि श्रि॒तः। मू॒र्धा हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
ईशा॑नो मे॒ मन्यौ श्रि॒तः। मन्युर् हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः। आत्मा हृद॑ये। हृद॑यं॒ मयि॑॑।
अ॒हम॒मृते। अ॒मृतं॒ ब्रह्म॑णि।
पुन॑र्म आ॒त्मा पुन॒रायु॒ रागात्। पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागात्।
वै॒श्वा॒न॒रो र॒श्मिभि॑र् वावृधा॒नः।
अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः॥
अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः अनुष्टुप् चन्दः सन्कर्षण मूर्ति स्वरूपो
योसावादित्यः परमपुरुषः स एष रुद्रो देवता।
नमः शिवायेति बीजम्। शिवतरायेति शक्तिः। महादेवायेति कीलकम्।
श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः॥
ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः।
दर्शपूर्ण मासात्मने तर्जनीभ्यां नमः।
चातुर् मास्यात्मने मध्यमाभ्यां नमः।
निरूढ पशुबन्धात्मने अनामिकाभ्यां नमः।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः।
सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः॥
अग्निहोत्रात्मने हृदयाय नमः।
दर्शपूर्ण मासात्मने शिरसे स्वाहा।
चातुर्मास्यात्मने शिखायै वषट्।
निरूढ पशुबन्धात्मने कवचाय हुम्।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट्।
सर्वक्रत्वात्मने अस्त्रायफट्।
भूर्भुवस्सुवरोमिति दिग्बन्धः॥
ध्यानम्
आपाताळ नभःस्थलान्त भुवन ब्रह्माण्ड माविस्फुरत् ज्योतिः स्फाटिक लिङ्ग
मौळि विलसत् पूर्णेन्दु वान्तामृतैः।
अस्तोकाप्लुत मेक मीश मनिशं रुद्रानु वाकाञ्जपन् ध्याये दीप्सित सिद्धये
ध्रुवपदं विप्रोभिषिञ्चे च्छिवम्॥
ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजञ्गैः
कण्ठे कालाः कपर्दाः कलित शशिकला श्चण्ड कोदण्ड हस्ताः।
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्त
प्रकटितविभवा नः प्रयच्छन्तु सौख्यम्॥
ॐ ग॒णानां त्वा ग॒णप॑ति हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑ शृ॒ण्वन्नूतिभि॑स्सीद॒ साद॑नम्॥
ॐ श्री महागणपतये॒ नमः॥
शं च॑ मे मय॑श्च मे प्रियं च॑ मेनुकामश्च॑ मे काम॑श्च मे
सौमन॒सश्च॑ मे भ॒द्रं च॑ मे श्रेय॑श्च मे वस्य॑श्च मे
यश॑श्च मे भग॑श्च मे द्रवि॑णं च मे यन्ता च॑ मे
धर्ता च॑ मे क्षेम॑श्च मे धृति॑श्च मे विश्वं॑ च मे
मह॑श्च मे सम्विच्च॑ मे ग्न्यात्रं॑ च मे सूश्च॑ मे प्रसूश्च॑ मे
सीरं॑ च मे लयश्च॑ म ऋतं च॑ मेमृतं॑ च मेयक्ष्मं च मेना॑मयच्च मे
जीवातु॑श्च मे दीर्घायुत्वं च॑ मेनमित्रं च मेभ॑यं च मे सुगं च॑ मे
शय॑नं च मे सूषा च॑ मे सुदिनं॑ च मे॥
ओं शान्तिः शान्तिः शान्ति॑॥
॥ श्री रुद्रप्रश्नः॥
ॐ नमो भगवते॑ रुद्रा॒य॥
ॐ नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नम॑।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नम॑॥
या त॒ इषु॑ शि॒वत॑मा शि॒वम् ब॒भूव॑ ते॒ धनु॑।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय॥
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि॥
यामिषुं॑ गिरिशंत॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिसी॒ पुरु॑षं॒ जग॑त्॥
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि।
यथा॑ न॒ सर्व॒मिज्जग॑दय॒क्ष्म सु॒मना॒ अस॑त्॥
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्।
अहीश्च सर्वाञ्ज॒म्भय॒न्सर्वाश्च यातुधा॒न्य॑॥
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑।
ये चे॒मा रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ हेड॑ ईमहे॥
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः।
उ॒तैनं॑ गो॒पा अ॑दृश॒न्न॒दृ॑शन्नुदहा॒र्य॑॥
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः।
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मीढुषे॥
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न् नम॑।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्व-मु॒भयो॒रार्त्नि॑यो॒र्ज्याम्॥
याश्च॑ ते॒ हस्त॒ इष॑व॒ परा॒ ता भ॑गवो वप।
अ॒व॒तत्य॒ धनु॒स्तव सह॑स्राक्ष॒ शते॑षुधे॥
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑ सु॒मना॑ भव।
विज्यं॒ धनु॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वा उ॒त॥
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथि॑।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑॥
तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज।
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे॥
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्या॒म् तव॒ धन्व॑ने।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑॥
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम्॥ १ ॥
नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑
त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ (or त्रिकालाग्नि)
नीलक॒ण्ठाय॑ मृत्युंज॒याय॑ सर्वेश्व॒राय॑
सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नम॑॥
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒
नम॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒
नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये नमो॒
नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टाणां॒ पत॑ये नमो॒
नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒
नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒
नमस्सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणं॒ पत॑ये॒ नमो॒
नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णं॒ पत॑ये नमो॒
नमो॑ भुवं॒तये॑ वारिवस्कृ॒धायौष॑धीनां॒ पत॑ये॒ नमो॒
नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नाम् पत॑ये॒ नमो॒
नम॑ कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नम॑॥ २ ॥
नम॒ सह॑मानाय निव्या॒दिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒
नम॑ ककु॒भाय॑ निष॒ङ्गिणे स्ते॒नानां॒ पत॑ये॒ नमो॒
नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒
नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒
नम॑ सृका॒विभ्यो॒ जिघासद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒
नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒
नम॑ उष्णी॒षिने॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒
नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒
नम॑ आतन्वा॒नेभ्य॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒
नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒
नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒
नम॒ आसी॑नेभ्य॒ शया॑नेभ्यश्च वो॒ नमो॒
नम॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒
नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒
नम॑ स॒भाभ्य॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒
नमो॒ अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नम॑॥ ३ ॥
नम॑ आव्य॒धिनीभ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒
नम॒ उग॑णाभ्यस्तृह॒तीभ्य॑श्च वो॒ नमो॒
नमो॑ गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒
नमो॒ व्रातेभ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒
नमो॒ विरू॑पेभ्यो वि॒श्वरु॑पेभ्यश्च वो॒ नमो॒
नमो॑ म॒हद्भ्य॑ क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒
नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒
नमो॒ रथेभ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒
नम॒ सेनाभ्यः सेना॒निभ्य॑श्च वो॒ नमो॒
नम॑ क्ष॒त्तृभ्य॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒
नम॒ कुला॑लेभ्यः क॒र्मारेभ्यश्च वो॒ नमो॒
नम॑ पुञ्जिष्टेभ्यो निषा॒देभ्य॑श्च वो॒ नमो॒
नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒
नमो॑ मृग॒युभ्य॑ श्व॒निभ्य॑श्च वो॒ नमो॒
नम॒ श्वभ्य॒ श्वप॑तिभ्यश्च वो॒ नम॑॥ ४ ॥
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒
नम॑ श॒र्वाय॑ च पशु॒पत॑ये च॒
नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒
नम॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒
नम॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒
नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒
नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒
नमो ह्र॒स्वाय॑ च वाम॒नाय॑ च॒
नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒
नमो॑ वृ॒द्धाय॑ च सं॒वृद्व॑ने च॒
नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
नम॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒
नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒
नम॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च॥ ५ ॥
नमो ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒
नम॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒
नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒
नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒
नम॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒
नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒
नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒
नम॒ श्लोक्या॑य चाऽवसा॒न्या॑य च॒
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒
नम॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒
नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒
नम॒ शूरा॑य चावभिन्द॒ते च॒
नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नम॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॥ ६ ॥
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒
नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒
नम॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नम॑ का॒ट्या॑य च नी॒प्या॑य च॒
नम॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒
नम॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒
नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒
नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च॥ ७ ॥
नम॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒
नम॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒
नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒
नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒
नम॑स्ता॒राय॒ नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒
नम॑ शंक॒राय॑ च मयस्क॒राय॑ च॒
नम॑ शि॒वाय॑ च शि॒वत॑राय च॒
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒
नम॑ पा॒र्या॑य चावा॒र्या॑य च॒
नम॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒
नम॑ आता॒र्या॑य चाला॒द्या॑य च॒
नम॒ शष्प्या॑य च॒ फेन्या॑य च॒
नम॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च॥ ८ ॥
नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒
नम॑ किशि॒लाय च॒ क्षय॑णाय च॒
नम॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒
नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒
नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒
नम॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒
नमो ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒
नम॑ पास॒व्या॑य च रज॒स्या॑य च॒
नम॒ शुष्क्या॑य च हरि॒त्या॑य च॒
नमो॒ लोप्या॑य चोल॒प्या॑य च॒
नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒
नम॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒
नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒
नम॑ आख्खिद॒ते च॑ प्रख्खिद॒ते च॒
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ हृद॑येभ्यो॒
नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒
नम॑ आनिर्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्य॑॥ ९ ॥
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित।
ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्माऽरो॒ मो ए॑षां॒
किंच॒नाम॑मत्॥
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑ भेषजी।
शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॥
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम्॥
यथा॑ न॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑
अ॒स्मिन्नना॑तुरम्॥
मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते।
यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं
मा न॒ उक्ष॑न्त-मु॒त मा न॑ उक्षि॒तम्।
मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा
न॑स्त॒नुवो॑ रुद्र रीरिषः॥
मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒
मा नो॒ अश्वे॑षु रीरिषः।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धी-र्ह॒विष्म॑न्तो॒
नम॑सा विधेम ते॥
आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय
सु॒म्नम॒स्मे ते॑ अस्तु।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च नः॒
शर्म॑ यच्छ द्वि॒बर्हा॥
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गन्न भी॒म-मु॑पह॒त्नुमु॒ग्रम्।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑
अ॒स्मन्निव॑पन्तु॒ सेना॥
परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒
तन॑याय मृडय॥
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑ सु॒मना॑ भव।
प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ वसा॑न॒
आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि॥
विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः।
यास्ते॑ स॒हस्र हे॒तयो॒न्यम॒स्मन्निव॑पन्तु॒ ताः॥
स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तय॑।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि॥ १० ॥
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्याम्।
तेषा सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
अ॒स्मिन् म॑ह॒त्य॑र्ण॒वेऽन्तरि॑क्षे भ॒वा अधि॑॥
नील॑ग्रीवाः शिति॒कण्ठा श॒र्वा अ॒धः क्ष॑माच॒राः॥
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव रु॒द्रा उप॑श्रिताः॥
ये वृ॒क्षेषु॑ स॒स्पिंज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः॥
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑ कप॒र्दिन॑॥
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑॥।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युध॑॥
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिण॑॥
य ए॒ताव॑न्तश्च॒ भूयासश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे
तेषा सहस्र-योज॒नेऽव॒धन्वा॑नि तन्मसि॥
नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येऽन्तरि॑क्षे॒
ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्षमिष॑व॒स्तेभ्यो॒ दश॒
प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑चीर्दशो॒र्ध्वास्तेभ्यो॒
नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒
तं वो॒ जम्भे॑ दधामि॥ ११ ॥
त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्यो-र्मु॑क्षीय॒ माऽमृतात्॥
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒
यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒
तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥
तमु॑ष्टु॒हि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑।
यक्ष्वाम॒हे सौमन॒साय॑ रु॒द्रं नमोभिर्दे॒वमसु॑रं दुवस्य॥
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः।
अ॒यं मे वि॒श्वभेषजो॒ऽय शि॒वाभि॑मर्शनः॥
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे।
तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॥
ओं नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि।
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः।
तेनान्नेनाप्याय॒स्व॥
नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि
॥ ओं शान्ति॒ शान्ति॒ शान्ति॑॥
॥ चमकप्रश्नः॥
ॐ अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिर॑।
द्यु॒म्नैर्वाजे॑भि॒राग॑तम्॥
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे
धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे
श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे
प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे
चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒
चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒
बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे
ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒
वर्म॑ च मे॒ऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒
परूषि च मे॒ शरी॑राणि च मे॥ १ ॥
ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒
भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे
महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे
द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे
श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ वश॑श्च मे॒
त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे
जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे
वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे
भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं॑ च म
ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे कॢ॒प्तं च॑ मे॒ कॢप्ति॑श्च मे
म॒तिश्च॑ मे सुम॒तिश्च॑ मे॥ २ ॥
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒
काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒
श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒
द्रवि॑णं च मे य॒न्ता च मे ध॒र्ता च मे॒ क्षेम॑श्च मे॒
धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒
ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे
ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे
जी॒वातुश्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे
सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे॥ ३ ॥
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे
घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒
सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒
औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒
पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒
भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒
कूय॑वाश्च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे व्री॒हिय॑श्च मे॒
यवाश्च मे॒ माषाश्च मे॒ तिलाश्च मे मु॒द्गाश्च॑ मे
ख॒ल्वाश्च मे गो॒धूमाश्च मे म॒सुराश्च मे
प्रि॒यंग॑वश्च॒ मेऽण॑वश्च मे श्या॒मकाश्च मे नी॒वाराश्च मे॥ ४ ॥
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒
सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒
सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे
लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒
ओष॑धयश्च मे कृष्टप॒च्यं च॑ मेऽकृष्टप॒च्यं च॑ मे
ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां
वि॒त्तं च मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒
भूति॑श्च मे वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒
शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒
गति॑श्च मे॥ ५ ॥
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे
सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे
पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒
त्वष्टा॑ च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒
विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे
म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे
पृथि॒वी च म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒
द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे
मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे॥ ६ ॥
अ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदाभ्यश्च॒ मेऽधि॑पतिश्च म
उपा॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे
मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे
शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे
ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मेऽतिग्रा॒ह्याश्च म
ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीयाश्च मे
माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे
पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे॥ ७ ॥
इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒
स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒
स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे
द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म
आधव॒नीय॑श्च म॒ आग्नीध्रं च मे हवि॒र्धानं॑ च मे
गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशाश्च मे
पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे॥ ८ ॥
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒
सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे
पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒
शक्क्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑
कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे
दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे
व्र॒तं च॑ मेऽहोरा॒त्रयोर्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे
य॒ज्ञेन॑ कल्पेताम्॥ ९ ॥
गर्भाश्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे
दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे
पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे
तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे
पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म
ऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाञ्च॑ मे
धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पतां
प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒
चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒
मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां
य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ १० ॥
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒
नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे
स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विशतिश्च मे॒
त्रयो॑विशतिश्च मे॒ पञ्च॑विशतिश्च मे
स॒प्तविशतिश्च मे॒ नव॑विशतिश्च म॒
एक॑त्रिशच्च मे॒ त्रय॑स्त्रिशच्च मे॒
चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒
षोड॑श च मे विश॒तिश्च॑ मे॒
चतु॑र्विशतिश्च मे॒ऽष्टाविशतिश्च मे॒ द्वात्रिशच्च मे॒
षट्त्रिशच्च मे चत्वरि॒शच्च॑ मे॒
चतु॑श्चत्वारिशच्च मे॒ऽष्टाच॑त्वारिशच्च मे॒
वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च
मू॒र्धा च॒ व्यश्नि॑यश्चान्त्याय॒नश्चान्त्य॑श्च
भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च॥ ११ ॥
ॐ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑
शसिष॒द्विश्वे॑दे॒वाः सूक्त॒वाचः॒
पृथि॑वीमात॒र्मा मा॑ हिसी॒र्मधु॑ मनिष्ये॒
मधु॑ जनिष्ये॒ मधु॒ वक्ष्यामि॒ मधु॑ वदिष्यामि॒
मधु॒मतीं दे॒वेभ्यो॒ वाच॑मुद्यास शुश्रू॒षेण्यां
मनु॒ष्येभ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑
पि॒तरोऽनु॑मदन्तु॥
॥ ॐ शान्तिः शान्तिः शान्तिः॥
॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां
चतुर्थकाण्डे सप्तमः प्रपाठकः॥