Gaṇapati Atharva Śīrṣa Upaniṣad in Devanagari Sanskrit
This page contains Ganapati Atharva Sirsha Upanishad in Devanagari Sanskrit.
॥ श्री गणपति अथर्वशीर्षोपनिषत्॥
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः।
स्थि॒रैरङ्गैस्तुष्टु॒वा स॑स्त॒नूभि॑। व्यशे॑म दे॒वहि॑तं॒ यदायु॑।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति न॑ पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥
ॐ शान्ति॒ शान्ति॒ शान्ति॑॥
अत गणपति अथर्वशीर्षम् व्याख्यास्यामः॥
ॐ नम॑स्ते ग॒णप॑तये। त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि।
त्वमे॒व के॒वलं॒ कर्ता॑ऽसि। त्वमे॒व के॒वलं॒ धर्ता॑ऽसि।
त्वमे॒व के॒वलं॒ हर्ता॑ऽसि। त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि।
त्वं साक्षादात्मा॑ऽसि नि॒त्यम्॥ १॥
ऋ॒तं व॑च्मि। स॒त्यं व॑च्मि॥ २॥
अव॑ त्वं॒ माम्। अव॑ व॒क्तारम्। अव॑ श्रो॒तारम्। अव॑ दा॒तारम्। अव॑ धा॒तारम्।
अवानूचानम॑व शि॒ष्यम्। अव॑ प॒श्चात्तात्। अव॑ पु॒रस्तात्। अवोत्त॒रात्तात्।
अव॑ दक्षि॒णात्तात्। अव॑ चो॒र्ध्वात्तात्। अवाध॒रात्तात्।
सर्वतो मां पाहि पाहि॑ सम॒न्तात्॥ ३॥
त्वं वाङ्मयस्त्वं॑ चिन्म॒यः। त्वमानन्दमयस्त्वं॑ ब्रह्म॒मयः।
त्वं सच्चिदानन्दाद्वि॑तीयो॒ऽसि।
त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि। त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि॥ ४॥
सर्वं जगदिदं त्व॑त्तो जा॒यते। सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति।
सर्वं जगदिदं त्वयि ल॑यमे॒ष्यति। सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति।
त्वं भूमिरापोऽनलोऽनि॑लो न॒भः। त्वं चत्वारि वाक्पदा॒नि॥ ५॥
त्वं गुणत्र॑याती॒तः। त्वं अवस्थात्र॑याती॒तः। त्वं देहत्र॑याती॒तः।
त्वं कालत्र॑याती॒तः। त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम्। त्वं शक्तित्र॑यात्म॒कः।
त्वां योगिनो ध्याय॑न्ति नि॒त्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं
रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भु॑वः स्व॒रोम्॥ ६॥
ग॒णादिं पूर्व॑मुच्चा॒र्य॒ व॒र्णादिंस्तद॒नन्त॑रम्।
अनुस्वारः प॑रत॒रः। अर्धेन्दु॑लसि॒तम्। तारे॑ण ऋ॒द्धम्।
एतत्तव मनु॑स्वरू॒पम्। गकारः पूर्वरू॒पम्। अकारो मध्य॑मरू॒पम्।
अनुस्वारश्चान्त्यरू॒पम्। बिन्दुरुत्त॑ररू॒पम्। नाद॑ सन्धा॒नम्। सहि॑ता स॒न्धिः।
सैषा गणे॑शवि॒द्या। गण॑क ऋ॒षिः। निचृद्गाय॑त्री छ॒न्दः।
श्रीमहागणपति॑र्देव॒ता। ॐ गं गणप॑तये॒ नम॑॥ ७॥
एक द॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि। तन्नो॑ दन्तिः प्रचो॒दयात्॥ ८॥
एक द॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒धारि॑णम्।
रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम्।
रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम्।
रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम्।
भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम्।
आविर्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृते पुरु॒षात्प॑रम्।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः॥ ९॥
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय
एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒ नम॑॥ १०॥
एतदथर्वशीर्षं॑ योऽधी॒ते। स ब्रह्मभूया॑य क॒ल्पते।
स सर्वविघ्नैर्न बा॒ध्यते। स सर्वतः सुख॑मेध॒ते।
स पञ्चमहापापात् प्रमु॒च्यते।
सा॒यम॑धीया॒नो॒ दि॒वस॑कृतं पा॒पं ना॑शयति।
प्रा॒तर॑धीया॒नो॒ रात्रि॑कृतं पा॒पं ना॑शयति।
सा॒यं प्रा॒तः प्र॑युञ्जा॒न॒ पा॒पोऽपा॑पो भ॒वति।
सर्वत्राधीयानोऽपविघ्नो भवति।
धर्मार्थकाममोक्षं॑ च वि॒न्दति।
इदमथर्वशीर्षमशिष्याय॑ न दे॒यम्। यो यदि मोहाद् दास्य॒ति।
स पापी॑यान् भ॒वति।
सहस्रावर्तनाद्यं यं काम॑मधी॒ते। तं तमने॑न सा॒धयेत्॥ ११॥
अनेन गणपतिमभि॑षिञ्च॒ति। स वाग्मी भ॒वति।
चतुर्थ्यामन॑श्नन् ज॒पति।
स विद्या॑वान् भ॒वति। इत्यथर्व॑णवा॒क्यम्।
ब्रह्माद्याचर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति॥ १२॥
यो दूर्वाङ्कु॑रैर्य॒जति। स वैश्रवणोप॑मो भ॒वति। यो ला॑जैर्य॒जति।
स यशो॑वान् भ॒वति। स मेधा॑वान् भ॒वति। यो मोदकसहस्रे॑ण य॒जति।
स वाञ्छितफलम॑वाप्नो॒ति। यः साज्य समि॑द्भिर्य॒जति।
स सर्वं लभते स स॑र्वं ल॒भते॥ १३॥
अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा। सूर्यवर्च॑स्वी भ॒वति।
सूर्यग्रहे म॑हान॒द्यां॒ प्र॒तिमासन्निधौ॑ वा ज॒प्त्वा। सिद्धम॑न्त्रो भ॒वति।
म॒हा॒विघ्नात् प्रमु॒च्यते। म॒हा॒दो॒षात् प्रमु॒च्यते।
म॒हा॒पा॒पात् प्रमु॒च्यते।
म॒हा॒प्र॒त्यवायात् प्रमु॒च्यते। स सर्वविद्भवति स सर्व॑विद्भ॒वति।
य ए॒वं वेद॑। इत्यु॑प॒निष॑त्॥ १४॥
ॐ शान्ति॒ शान्ति॒ शान्ति॑॥
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः।
स्थि॒रैरङ्गैस्तुष्टु॒वा स॑स्त॒नूभि॑। व्यशे॑म दे॒वहि॑तं॒ यदायु॑।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति न॑ पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥
ॐ शान्ति॒ शान्ति॒ शान्ति॑॥